तमध्वरे विश्वजिति क्षितीशं नि:शेषविश्राणितकोषजातं । उपात्तविद्यो गुरुदक्षिणार्थी कौत्स: प्रपेदे वरतन्तुशिष्य: ॥१॥ स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशील: । श्रुतप्रकाशं यशसा प्रकाश: प्रत्युज्जगामातिथिमातिथेय: ॥२॥ तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । विशाम्पतिर्विष्टरभाजमारात्कृताञ्जलि: कृत्यविदित्युवाच ॥३॥ अप्यग्रणीर्मन्त्रकॄतामृषीणां कुशाग्रबुद्धे! कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोश्णरश्मे: ॥४॥ कायेन वाचा मनसाऽपि शश्वद्यत्सम्भृतं वासवधैर्यलोपि । आपाद्यते न व्ययमन्तरायै: कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥५॥ आधारबन्धप्रमुखै: प्रयत्नै: संवर्धितानां सुतनिर्विशेषम् । कच्चिन्न वाय्वादिरुपप्लवो व: श्रमच्छिदामाश्रमपादपानाम्॥६॥ क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभि: कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूति: ॥७॥ निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलय: पितृणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥८॥ नीवारपाकादि कडङ्गरीयैरामॄश्यते जानपदैर्न कच्चित् । कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं व: ॥९॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥१०॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि सम्भावयितुं वनान्माम् ॥११॥ इत्यर्घपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्य: ॥१२॥ सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टे: कल्पेत लोकस्य कथं तमिस्ना ॥१३॥ भक्ति: प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयाऽतिशेषे । व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषाद: ॥१४॥ शरीरमात्रेण नरेन्द्र ! तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धि: । आरण्यकोपात्तफलप्रसूति: स्तम्बेन नीवार इवावशिष्ट: ॥१५॥ स्थाने भवानेकनराधिप: सन्नकिञ्चनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशो: कलाक्षय: श्लाघ्यतरो हि वॄद्धे: ॥१६॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये । स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरत् घनं नार्दति चातकोऽपि ॥१७॥ एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नॄपतिर्निषिध्य । किं वस्तु विद्वन्! गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त: ॥१८॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षण: प्रस्तुतमाचचक्षे ॥१९॥ समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै । स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥२०॥ निर्बन्धसञ्जातरुषाऽर्थकार्श्यमचिन्तयित्वा गुरुणाऽहमुक्त: । वित्तस्यविद्यापरिसङ्ख्यया मे कोटिश्चतस्रो दश चाहरेति ॥२१॥ सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥२२॥ इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथ: ॥२३॥ गुर्वर्थमर्थी श्रुतपारदृश्वा रघो: सकाशादनवाप्य कामम् । गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतार: ॥२४॥ स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥२५॥ तथेति तस्यावितथं प्रतीत: प्रत्यग्रहीत्सङ्गरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥२६॥ वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥२७॥ अथाधिशिश्ये प्रयत: प्रदोषे रथं रघु: कल्पितशस्त्रगर्भम् । सामन्तसम्भावनयैव धीर: कैलासनाथं तरसा जिगीषु: ॥२८॥ प्रात: प्रयाणाभिमुखाय तस्मै सविस्मया: कोषगृहे नियुक्ता: । हिरण्यमयीं कोषगृहस्य मध्ये वृष्टिं शशंसु: पतितां नभस्त: ॥२९॥ तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥३०॥ जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनि:स्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥३१॥ अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षि: । स्पृन्करेणानतपूर्वकायं सम्प्रस्थितो वाचमुवाच कौत्स: ॥३२॥ किमत्र चित्रं यदि कामसूर्भूवृत्ते स्थितस्याधिपते: प्रजानाम् । अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥३३॥ आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवत: पितेव ॥३४॥ इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरो: सकाशम् । राजाऽपि लेभे सुतमाशु तस्मादालोक मर्कादिव जीवलोक: ॥३५॥ ब्राह्मो मुहूर्तो किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अत: पिता ब्राह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥३६॥ रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्विभिदे कुमार: प्रवर्तितो दीप इव प्रदीपात् ॥३७॥ उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्री: साभिलाषाऽपि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥३८॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्या: । आप्त: कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्ट: ॥३९॥ तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम्। प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥४०॥ तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभि: । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पा: ॥४१॥ स नर्मदारोधसि सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले । निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥४२॥ अथोपरिष्टाद्भ्रमरैर्भ्रमद्भि: प्राक्सूचितान्त:सलिलप्रवेश: । निर्धौतदानामलगण्डभित्तिर्वन्य: सरित्तो गज उन्ममज्ज ॥४३॥ नि:शेषविक्षालितधातुनाऽपि वप्रक्रियामृक्षवतस्तटेषु । नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुणठितेन ॥४४॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुख: सशब्दम् । बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रमत्त: ॥४५॥ शैलोपम: शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्वं तदुत्पीडितवारिराशि: सरित्प्रवाहस्तटमुत्ससर्प ॥४६॥ तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्री: ॥४७॥ सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्ना: सेनागजेन्द्रा विमुखा बभूवु: ॥४८॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥४९॥ तमापतन्तं नृपतेरवध्यो वन्य: करीति श्रुतवान्कुमार: । निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकष्टशार्ङ्ग: ॥५०॥ स विद्धमात्र: किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्ट: । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥५१॥ अथ प्रभावोपनतै: कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पै: । उवाच वाग्मी दशनप्रभाभि: संवर्धितोर:स्थलतारहार: ॥५२॥ मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् । अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥५३॥ स चानुनीत: प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् । उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥५४॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यज: कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥५५॥ स्म्मोचित: सत्त्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद्भवतो न कुर्यां वॄथा हि मे स्यात्स्वपदोपलब्धि: ॥५६॥ सम्मोहनं नाम सखे ! ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वमादत्स्व यत: प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥५७॥ अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभू: प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥५८॥ तथेत्युपस्पृश्य पय: पवित्रं सोमोद्भाया: सरितो नृसोम: । उदङ्मुख: सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥५९॥ एवं तयोरध्वनि दैवयोगादासेदुषो: सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥६०॥ तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्ष: । प्रयुज्जगाम क्रथकैशिकेन्द्रश्चन्द्र: प्रवृद्धोर्मिरिवोर्मिमाली ॥६१॥ प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्री: । मेने यथा तत्र जन: समेतो वैदर्भमागन्तुमजं गॄहेशम् ॥६२॥ तस्याधिकारपुरुषै: प्रणतै: प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् । रम्यां रघुप्रतिनिधि: स नवोपकार्यां बाल्यात्परामिव दशां मदनोऽध्युवास: ॥६३॥ तत्र स्वयंवरसमाहॄतराजलोकं कन्याललाम कमनीयमजस्य लिप्सो: । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥६४॥ तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजा: सवयस: प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाच: ॥६५॥ रात्रिर्गता मतिमतां वर ! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता । तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी ॥६६॥ निद्रावशेन भवताऽप्यनवेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्र: ॥६७॥ तद्वल्गुना युगपदुन्मिषितेन तावत्सद्य: परस्परतुलामधिरोहितां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥६८॥ वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नै: । स्वाभाविकं परगुणेन विभातवायु: सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥६९॥ ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भ: । आभाति लब्धपरभागतयाऽधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥७०॥ यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर ! याते किं वा रिपूँस्तव गुरु: स्वयमुच्छिनत्ति ॥७१॥ शय्यां जहत्युभयपक्षविनीतनिद्रा: स्तम्बेरमामुखरशृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशा: ॥७२॥ दीर्घेष्वमी नियमिता: पटमण्डपेषु निद्रां विहाय वनजाक्ष ! वनायुदेश्या: । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहा: ॥७३॥ भवति विरलभक्तिर्म्लानपुष्पोपहार: स्वकिरणपरिवेषोद्भेदशून्या: प्रदीपा: । अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थ: ॥७४॥ इति विरचितवाग्भिर्बन्दिपुत्रै: कुमार: सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार । मदपटुनिनदद्भिर्बोधितो राजहंसै: सुरगज इव गाङ्गं सैकतं सुप्रतीक: ॥७५॥ अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेष: क्षितिपसमाजमगात्स्वयंवरस्थम् ॥७६॥
I'm trying to Provide you the three aspects of Indian Intellectualism in Sanskrit, Pali & Hindi, which will give you enormous pleasure.
Search This Blog
21 November, 2010
Raghuvansha Mahakavyam 5th Chapter

Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment